|

Vishnu Sahasranama Stotram in Sanskrit

विष्णु सहस्रनाम (Vishnu Sahasranama Stotram in Sanskrit), भगवान विष्णु के हज़ार नामों से बना एक अत्यंत दिव्य स्तोत्र है। यह हिन्दू धर्म के सबसे पवित्र और प्रचलित स्तोत्रों में से एक है। महाभारत के अनुशासन पर्व में उपलब्ध विष्णु सहस्रनाम इसका सबसे लोकप्रिय संस्करण है। शास्त्रों के मुताबिक, एकादशी और हर गुरुवार को Vishnu Sahasranama Stotram in Sanskrit का पाठ करने से जीवन में अपार सफलता मिलती है, व्यक्ति के पापों का नाश होता है और घर में सुख-समृद्धि आती है।

Vishnu Sahasranama Stotram in Sanskrit

विष्णु सहस्रनाम का पाठ करने से मिलने वाले फ़ायदे

  • साधक की सभी शुभ मनोकामनाएं पूरी होती हैं।
  • यश, सुख, ऐश्वर्य, संपन्नता, सफलता, आरोग्य और सौभाग्य मिलता है।
  • लंबे समय से रुके और बिगड़े कामों में सफलता मिलती है।
  • कुंडली में बृहस्पति (गुरु ग्रह) के दुष्प्रभाव को कम करने में अत्यंत फ़ायदेमंद होता है।
  • आध्यात्मिक उन्नति के साथ-साथ भौतिक इच्छाएं भी पूरी होती हैं।
  • जीवन की बाधाएं दूर होती हैं और सारे काम आसानी से बनने लगते हैं।
  • सभी ग्रहों और नक्षत्रों की प्रतिकूलता शांत होकर अनुकूल फल प्राप्त होता है।

विष्णु सहस्रनाम का पाठ करने के नियम

  1. पाठ करने से पहले स्नान करके तन और मन से पवित्र होना ज़रूरी है।
  2. यदि विशेष कामना से पाठ कर रहे हैं, तो एकादशी या गुरुवार का व्रत रखकर पाठ करें।
  3. व्रत का पारण सात्विक और शुद्ध भोजन से करें।
  4. पाठ करने के लिए स्वच्छ पीले या श्वेत वस्त्र पहनें।
  5. पाठ प्रारंभ करने से पहले श्रीहरि विष्णु की विधिवत पूजा करें और गुड़, केला या पीली मिठाई अर्पित करें।
  6. पाठ करते समय एकाग्रता बनाए रखें और बीच में कोई अन्य सांसारिक कार्य न करें।

विष्णु भगवान के 1000 नाम | Vishnu Sahasranama Stotram in Sanskrit Lyrics

॥ ॐ नमो भगवते वासुदेवाय नमः ॥

ॐ विश्वं विष्णुः वषट्कारो भूत-भव्य-भवत्-प्रभुः ।
भूत-कृत् भूत-भृत् भावो भूतात्मा भूतभावनः ॥ १ ॥
पूतात्मा परमात्मा च मुक्तानां परमं गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञो अक्षर एव च ॥ २ ॥
योगो योग-विदां नेता प्रधान-पुरुषेश्वरः ।
नारसिंह-वपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥
सर्वः शर्वः शिवः स्थाणुः भूतादिः निधिः अव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुः ईश्वरः ॥ ४ ॥
स्वयंभूः शम्भुः आदित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥
अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६ ॥
Vishnu Sahasranama Stotram in Sanskrit - Shloka 1 to 6
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परम् ॥ ७ ॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ॥ ८ ॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिः आत्मवान् ॥ ९ ॥
सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १० ॥
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिः अच्युतः ।
वृषाकपिः अमेयात्मा सर्व-योग-विनिःसृतः ॥ ११ ॥
वसुः वसुमनाः सत्यः समात्मा संमितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२ ॥
रुद्रो बहु-शिरा बभ्रुः विश्वयोनिः शुचि-श्रवाः ।
अमृतः शाश्वतः स्थाणुः वरारोहो महातपाः ॥ १३ ॥
सर्वगः सर्वविद्-भानुः विष्वक-सेनो जनार्दनः ।
वेदो वेदविद्-अव्यंगो वेदांगो वेदवित् कविः ॥ १४ ॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।
चतुरात्मा चतुर्व्यूहः-चतुर्दंष्ट्रः-चतुर्भुजः ॥ १५ ॥
भ्राजिष्णु भोजनं भोक्ता सहिष्णुः जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥
उपेंद्रो वामनः प्रांशुः अमोघः शुचिः ऊर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७ ॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अति-इंद्रियो महामायो महोत्साहो महाबलः ॥ १८ ॥
महाबुद्धिः महा-वीर्यो महा-शक्तिः महा-द्युतिः ।
अनिर्देश्य-वपुः श्रीमान् अमेयात्मा महाद्रि-धृक् ॥ १९ ॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः ॥ २० ॥
मरीचिः दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१ ॥
अमृत्युः सर्व-दृक् सिंहः सन्-धाता संधिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२ ॥
गुरुः गुरुतमो धामः सत्यः सत्य-पराक्रमः ।
निमिषो-अ-निमिषः स्रग्वी वाचस्पतिः उदार-धीः ॥ २३ ॥
अग्रणीः ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४ ॥
आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः ।
अहः संवर्तको वह्निः अनिलो धरणीधरः ॥ २५ ॥
सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।
सत्कर्ता सकृतः साधुः जह्नुः-नारायणो नरः ॥ २६ ॥
असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥ २७ ॥
वृषाही वृषभो विष्णुः वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ॥ २८ ॥
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैक-रूपो बृहद्-रूपः शिपिविष्टः प्रकाशनः ॥ २९ ॥
Vishnu Sahasranama Stotram in Sanskrit Lyrics
ओजः तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्रः चंद्रांशुः भास्कर-द्युतिः ॥ ३० ॥
अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ॥ ३१ ॥
भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत्-कांतः कामः कामप्रदः प्रभुः ॥ ३२ ॥
युगादि-कृत् युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित् ॥ ३३ ॥
इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत् कर्ता विश्वबाहुः महीधरः ॥ ३४ ॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपां निधिरधिष्ठानम् अप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥
स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद् भानुः आदिदेवः पुरंदरः ॥ ३६ ॥
अशोकः तारणः तारः शूरः शौरिः जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७ ॥
पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत् ।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः ॥ ३८ ॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिंजयः ॥ ३९ ॥
विक्षरो रोहितो मार्गो हेतुः दामोदरः सहः ।
महीधरो महाभागो वेगवान्-अमिताशनः ॥ ४० ॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१ ॥
व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।
परर्द्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ॥ ४२ ॥
रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां श्रेष्ठः धर्मो धर्मविदुत्तमः ॥ ४३ ॥
वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४ ॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ॥ ४५ ॥
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ॥ ४६ ॥
अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमिः नक्षत्री क्षमः क्षामः समीहनः ॥ ४७ ॥
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥
Vishnu Sahasranamam in Sanskrit
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ॥ ४९ ॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५० ॥
धर्मगुब् धर्मकृद् धर्मी सदसत्क्षरं-अक्षरम् ।
अविज्ञाता सहस्रांशुः विधाता कृतलक्षणः ॥ ५१ ॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद् गुरुः ॥ ५२ ॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ॥ ५३ ॥
सोमपो-अमृतपः सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥ ५४ ॥
जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः ।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ॥ ५५ ॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत् ॥ ५७ ॥
महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः ॥ ५८ ॥
वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९ ॥
भगवान् भगहानंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुः-गतिसत्तमः ॥ ६० ॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिविःस्पृक् सर्वदृक् व्यासो वाचस्पतिः अयोनिजः ॥ ६१ ॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम् ॥ ६२ ॥
शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३ ॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥ ६४ ॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः ॥ ६५ ॥
Vishnu Sahasranama Stotram in Sanskrit Path
स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वरः ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६ ॥
उदीर्णः सर्वतः चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७ ॥
अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८ ॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९ ॥
कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णुः वीरो अनंतो धनंजयः ॥ ७० ॥
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१ ॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२ ॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३ ॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४ ॥
सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५ ॥
भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ॥ ७६ ॥
विश्वमूर्तिमहामूर्तिः दीप्तमूर्तिः अमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७ ॥
एको नैकः सवः कः किं यत्-तत्-पदमनुत्तमम् ।
लोकबंधुः लोकनाथो माधवो भक्तवत्सलः ॥ ७८ ॥
सुवर्णवर्णो हेमांगो वरांगः चंदनांगदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९ ॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८० ॥
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः ॥ ८१ ॥
चतुर्मूर्तिः चतुर्बाहुः चतुर्व्यूहः चतुर्गतिः ।
चतुरात्मा चतुर्भावः चतुर्वेदविदेकपात ॥ ८२ ॥
समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३ ॥
शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥
उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श्रृंगी जयंतः सर्वविज्-जयी ॥ ८५ ॥
Vishnu Sahasranama Stotram in Sanskrit Complete
सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधः ॥ ८६ ॥
कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनलः ।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७ ॥
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो औदुंबरो-अश्वत्थः चाणूरांध्रनिषूदनः ॥ ८८ ॥
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः ॥ ८९ ॥
अणुः बृहत् कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९० ॥
भारभृत्-कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१ ॥
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः ॥ ९२ ॥
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत्-प्रीतिवर्धनः ॥ ९३ ॥
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग् विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४ ॥
अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५ ॥
सनात्-सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥ ९६ ॥
अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७ ॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८ ॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ॥ ९९ ॥
अनंतरूपो-अनंतश्रीः जितमन्युः भयापहः ।
चतुरस्रो गंभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिरांगदः ।
जननो जनजन्मादिः भीमो भीमपराक्रमः ॥ १०१ ॥
आधारनिलयो-धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२ ॥
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ॥ १०३ ॥
भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ॥ १०४ ॥
यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः ।
यज्ञान्तकृत्-यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५ ॥
आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥
शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७ ॥

सर्वप्रहरणायुध ॐ नमः इति ॥

वनमालि गदी शार्ङ्गी शंखी चक्री च नंदकी ।
श्रीमान् नारायणो विष्णुः वासुदेवोऽभिरक्षतु ॥

निष्कर्ष (Conclusion)

Vishnu Sahasranama Stotram in Sanskrit केवल एक स्तोत्र नहीं, बल्कि अनंत आध्यात्मिक शक्ति का पुंज है। यह हमें सिखाता है कि परमात्मा एक ही हैं, भले ही उनके दिव्य नाम हज़ार हों। चाहे आप मानसिक शांति की तलाश में हों, ग्रहों के दोषों (विशेषकर बृहस्पति की पीड़ा) को दूर करना चाहते हों, या मोक्ष की कामना रखते हों, इस स्तोत्र का पाठ हर मार्ग में सहायक है। ekadashi.org पर हमारा प्रयास है कि आप इन दिव्य संस्कृत श्लोकों को शुद्धता के साथ पढ़ें और भगवान विष्णु की असीम कृपा प्राप्त करें।

विष्णु सहस्रनाम: अक्सर पूछे जाने वाले प्रश्न (FAQs)

1. विष्णु सहस्रनाम का पाठ करने का सबसे अच्छा समय क्या है?

उत्तर: विष्णु सहस्रनाम का पाठ करने के लिए ब्रह्म मुहूर्त (सुबह 4 से 6 बजे के बीच) सबसे उत्तम माना जाता है। यदि संभव न हो, तो आप स्नान के पश्चात स्वच्छ वस्त्र धारण कर सुबह पूर्व दिशा की ओर मुख करके इसका पाठ कर सकते हैं।

2. क्या महिलाएं विष्णु सहस्रनाम का पाठ कर सकती हैं?

उत्तर: जी हाँ, कोई भी भक्त (चाहे पुरुष हो या महिला) पूरी श्रद्धा, भक्ति और तन-मन की शुद्धता के साथ Vishnu Sahasranama Stotram in Sanskrit का पाठ कर सकता है।

3. यदि संस्कृत पढ़ना कठिन हो, तो क्या करें?

उत्तर: यदि आप संस्कृत के कठिन शब्दों का उच्चारण नहीं कर पा रहे हैं, तो आप इसे ऑडियो रूप में सुन सकते हैं या हिंदी अनुवाद पढ़ सकते हैं। भगवान विष्णु भाव के भूखे हैं, इसलिए सच्ची श्रद्धा अधिक महत्वपूर्ण है।

4. इस स्तोत्र का पाठ करने के मुख्य लाभ क्या हैं?

उत्तर: नियमित पाठ से मानसिक तनाव दूर होता है, घर में सुख-समृद्धि आती है, भय और बाधाओं का नाश होता है और व्यक्ति को पापों से मुक्ति मिलती है। यह बृहस्पति (Jupiter) ग्रह को मजबूत करने के लिए अचूक उपाय है।

5. विष्णु सहस्रनाम की उत्पत्ति कहाँ से हुई?

उत्तर: यह पवित्र स्तोत्र महाभारत के ‘अनुशासन पर्व’ से लिया गया है, जिसे महर्षि वेदव्यास ने लिपिबद्ध किया था। इसे पितामह भीष्म ने कुरुक्षेत्र के युद्ध मैदान में युधिष्ठिर को उपदेश के रूप में सुनाया था, जब भगवान श्रीकृष्ण स्वयं वहां उपस्थित थे।


नोट: इस लेख में प्रस्तुत Vishnu Sahasranama Stotram in Sanskrit महाभारत के अनुशासन पर्व की पारंपरिक पाठ परंपरा पर आधारित है।

​संबंधित व्रत कथा एवं स्तोत्र

Leave a Reply

Your email address will not be published. Required fields are marked *